|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.79. अध्यायः 079
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति विवाहविभागकथनम्॥ 1 ॥ तथा कन्यानां भार्यात्वप्रापकविध्यादिनिरूपणम्॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च।
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह॥ 13-79-1(84565)
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः।
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप॥ 13-79-2(84566)
भीष्म उवाच। 13-79-3x(7023)
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च।
अद्भिरेव प्रदातव्या कन्या गुणवते भवेत्।
ब्राह्मणानां सतामेष नित्यं धर्मो युधिष्ठिर॥ 13-79-3(84567)
आवाह्यमावहेदेवं यो दद्यादनुकूलतः।
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः॥ 13-79-4(84568)
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एष यः।
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः॥ 13-79-5(84569)
धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान्।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः॥ 13-79-6(84570)
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात्।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते॥ 13-79-7(84571)
`सुसां मत्तां प्रमत्तां वा रहो रात्रौ च गच्छति।
स पापिष्ठो विवाहानां पैशाचः कथितोऽधमः॥ 13-79-8(84572)
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर।
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन॥ 13-79-9(84573)
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ।
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः॥ 13-79-10(84574)
तिस्त्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु।
वैश्यः स्वजात्यां विन्देत तास्वपत्यं हिताय हि॥ 13-79-11(84575)
द्विजस्य ब्राह्म्णी श्रेष्ठा क्षत्रिया क्षत्रियस्य तु।
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः॥ 13-79-12(84576)
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः।
शूद्रायां जनयविन्प्रः प्रायश्चित्ती विधीयते॥ 13-79-13(84577)
`नातिबालां वहन्त्यन्ते अनित्यत्वात्प्रजार्थिनः।
वहन्ति कर्मिणस्तस्यामन्तः शुद्धिव्यपेक्षया॥ 13-79-14(84578)
अपरान्वयसम्भूतां संस्वप्नादिविवर्जिताम्।
कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि॥ 13-79-15(84579)
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम्।
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात्॥ 13-79-16(84580)
यस्यास्तु न भवेद्भाता पिता वा भरतर्षभ।
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा॥ 13-79-17(84581)
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती।
चतुर्थेऽत्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत्॥ 13-79-18(84582)
प्रजा न हीयते तस्या रतिश्च भरतर्षभ।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः॥ 13-79-19(84583)
असपिण्डा च या मातुरसगोत्रा च या पितुः।
इत्येतामुपयच्छेत तं धर्मं मनुरब्रवीत्॥ 13-79-20(84584)
युधिष्ठिर उवाच। 13-79-21x(7024)
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः।
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत्॥ 13-79-21(84585)
पाणिग्रहीत्ता चान्यः स्यात्कस्य भार्या पितामह।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्॥ 13-79-22(84586)
भीष्म उवाच। 13-79-23x(7025)
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रदृश्यते।
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः॥ 13-79-23(84587)
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च।
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः॥ 13-79-24(84588)
नह्यकामेन संवादं मनुरेवं प्रशंसति।
अयशस्यमधर्म्यं च यन्मृषा धर्मगोपनम्॥ 13-79-25(84589)
नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते।
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत॥ 13-79-26(84590)
बन्धुभिः समनुज्ञाते मन्त्रहोमौ प्रयोजयेत्।
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन॥ 13-79-27(84591)
यस्त्वत्र मन्इत्रसमयो भार्यापत्योर्मिथः कृतः।
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः॥ 13-79-28(84592)
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात्।
स दैवीं मानुषीं वाचमनृतां पर्युदस्यति॥ 13-79-29(84593)
युधिष्ठिर उवाच। 13-79-30x(7026)
कन्यायां प्राप्तसुल्कायां ज्यायांश्चेदाव्रजेद्वरः।
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा॥ 13-79-30(84594)
तस्मिन्नुभयतो दोषे कुर्वञ्श्रेयः समाचरेत्।
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः॥ 13-79-31(84595)
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्।
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम्॥ 13-79-32(84596)
भीष्म उवाच। 13-79-33x(7027)
नैव निष्ठाकरं शुल्कं ज्ञात्वाऽऽसीत्तेन नानृतम्।
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित्।
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः॥ 13-79-33(84597)
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः।
यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः।
प्रतिगृह्य भवेद्देमेव धर्मः सनातनः॥ 13-79-34(84598)
दास्यामि भवते कन्यामिति पूर्वं नभाषितम्।
ये चाहुर्ये च नाहुर्ये ये चावश्यं वदन्त्युत॥ 13-79-35(84599)
तस्मादाग्रहणात्पाणेर्याचयन्ति परस्परम्।
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम्॥ 13-79-36(84600)
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम्।
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः॥ 13-79-37(84601)
समीक्ष्य च बहून्दोषान्संवासाद्विद्धि पाणयोः।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु॥ 13-79-38(84602)
अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम्।
जित्वाऽङ्गमागधान्सर्वान्काशीनथ च कोसलान्॥ 13-79-39(84603)
गृहीतपाणिरेकाऽऽसीत्प्राप्तशुल्काऽपराऽभवत्।
कन्याऽगृहीता तत्रैव विसर्ज्या इति मे पिता।
अब्रवीदितरां कन्यामावहेति स कौरवः॥ 13-79-40(84604)
अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः।
अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाऽभवत्॥ 13-79-41(84605)
ततोहमब्रवं राजन्नाचारेप्सुरिदं वचः।
आचारं तत्त्वतो वेत्तुमिच्छामि च पुनःपुनः॥ 13-79-42(84606)
ततो मयैवमुक्ते तु वाक्ये धर्मभृतावरः॥
पिता मम महाराज बीह्लीको वाक्यमब्रवीत्॥ 13-79-43(84607)
यदि व शुल्कतो निष्ठा न पाणिग्रहणात्तथा।
लाजान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः॥ 13-79-44(84608)
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम्।
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा॥ 13-79-45(84609)
प्रसिद्धं भाषितं दाने नैषां प्रत्यायकं पुनः।
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः॥ 13-79-46(84610)
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा।
न ह्येव भार्या क्रेतव्या न विक्रय्यां कथञ्चन॥ 13-79-47(84611)
ये च क्रीणन्ति दासीवद्विक्रीणन्ति तथैव च।
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम्॥ 13-79-48(84612)
अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः।
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः॥ 13-79-49(84613)
पाणिग्रहीता वाऽन्यः स्यादत्र नो धर्मसंशयः।
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः॥ 13-79-50(84614)
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्।
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत्॥ 13-79-51(84615)
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा।
कुर्वते जीवतोप्येवं मृते नैवास्ति संशयः॥ 13-79-52(84616)
देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः।
तमेवानुगता भूत्वा पाणिग्राहस्य नाम सा॥ 13-79-53(84617)
लिखन्त्येव तु केषांचिदपरेषां शनैरपि।
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः॥ 13-79-54(84618)
तत्पाणिग्रहणात्पूर्वमन्तरं यत्र वर्तते।
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः॥ 13-79-55(84619)
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे।
पाणिग्रहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते॥ 13-79-56(84620)
इति देयं वदन्त्यत्र त एतं निश्चयं विदुः।
अनुकूलामनुवशां भ्रात्रा दत्तामुपाग्निकाम्।
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः॥ ॥ 13-79-57(84621)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनाशीतितमोऽध्यायः॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-79-3 योनि मातृतः पितृतश्च शुद्धिम्। अयं ब्राह्माः प्रथमो विवाहः॥ 7-79-4 एवं उक्तगुणवन्तं आवाह्यं विवाहयोग्यं आवहेत् आकारयेत्। ततश्च अनुकूलतो धनदानादिना अभिमुखीकृताय दद्यात्। अयं प्राजापत्यो नाम द्वितीयो विप्राणां क्षत्रियाणां च प्रशस्ततरः॥ 7-79-6 आसुरं चतुर्थमाह धनेनेति॥ 7-79-7 हत्वेति राक्षसः पञ्चमः। अत्रैव प्रमत्तानां बन्धूनां कन्याहरणात् पैशाचो हरणसामान्यादन्तर्भवति॥ 7-79-13 नग्निकां एकवाससम्। अजातस्त्रीव्यञ्जनामिति यावत्॥ 7-79-17 पुत्रिकाधर्मिणी यस्याः पिता इयमेव दुहिता मम पुत्रस्थाने इत्यभिप्रायवान्न वेति न ज्ञायते सा॥ 7-79-19 वाच्या निद्या। प्रजनो हीयते इति ध. पाठः॥ 7-79-23 संस्थानाय व्यवस्थार्थं मन्त्रवन्मन्त्रितं विचारवद्भिः सर्वैरेकीभूय मन्त्रितमियमस्मै देयेति विचारितम्। तस्य गृषाकरणं पातकः पातयितुं भवतीत्यर्थः। मृषावादस्त्वपातकमिति थ. ध. पाठः॥ 7-79-25 तत्र नेति पक्षं निन्दति नहीति॥ 7-79-28 यद्यपि ज्ञातिभिः कृतः समयो गुरुस्तथापि मन्त्रपूर्वकः समयो गुरुतर इत्यर्थः॥ 7-79-29 देवः प्राक्कर्म ईश्वरो वा। वेत्ति लभते॥ 7-79-31 दोषे सति कुर्वन् कर्ता श्रेयः प्रशस्ततरं किं समाचरेदित्यध्याहृत्य योज्यम् ॥ 7-79-32 कथ्यतामित्यादरसूचनार्था पुनरुक्तिः॥ 7-79-33 गुणैर्वयोधिकत्वादिभिः॥ 7-79-34 कन्यार्तालङ्कारग्रहणे न दोषोऽस्तीत्याह अलङ्कृत्वेति॥ 7-79-35 नभाषितमित्येकपदम्। ये पूर्वं दास्यामीत्याहुर्ये च नदास्यामीत्याहुर्ये च अवश्यं दास्यामीति वदन्ति तत्सर्वं नभाषितं अनुक्तवदेवेत्यर्थः॥ 7-79-36 यस्मादेवं तस्मात् आपाणिग्रहणात्कन्यां याचेतेति मरुतां वरस्तेन ततः पूर्वं विशिष्टवरार्थमपहारेपि न दोष इति भावः॥ 7-79-37 तत्कन्या कामो मूलं यस्य। तस्मादुत्तमदौहित्रार्थिना श्रेयसे एव कन्या प्रदेयेति भावः॥ 7-79-38 संवासाच्चिरपरिचयात्। पाणयोः क्रयविक्रययोः संवादे विद्विषाणयोरिति ध.पाठः॥ 7-79-39 वीर्यमपि शुल्कं भवतीत्यभिप्रायेणाह अहमिति। अम्बिकाम्बालिकयोरेकत्वविवक्षयां द्वे इत्युक्तम्॥ 7-79-40 प्राप्तशुल्का वीर्येण निर्जितापि कन्या अगृहीता अप्राप्तपाणिग्रहेयं अम्बा विसर्ज्या उत्स्रष्टं योग्या इति पिता पितृव्यो बाह्लीकोऽब्रवीत्॥ 7-79-41 अनुपप्रच्छ अनुपृष्टवानहम्॥ 7-79-44 प्राप्तं शुल्कं येन। पाठान्तरे यस्याः सा। कन्यापिता कन्या वा लाजान्तरं वरान्तरमुपासीत इति या स्मृतिस्तर्हि बाध्येतेत्यध्याहृत्य योजना। लाजा विद्यन्ते ह्यौम्यद्रव्यमस्य स इति लाजशब्दोऽर्शआद्यच्प्रत्ययान्तः। लाजोप्तारमुपासीतेति थ.ध.पाठः॥ 7-79-45 येषां शुल्कतो निष्ठा तेषां वाक्यतो वाक्यं प्रमाणं स्मृतमिति धर्मविदो नह्याहुरित्यन्वयः 7-79-46 लोकविरोधमप्याहार्धेन। प्रसिद्धमिति कन्याया दानमित्येवोच्यते नतु क्रयो जयो वेति। एषां शुल्कवादिनां प्रत्यायकं भार्यात्वज्ञापकं किमपि नास्ति। परिणयनादेव भार्या भवति न शुल्कमात्रादिति लोकव्यवहारस्य स्पष्टत्वादित्यर्थः॥ 7-79-52 जीवत इत्यनादरे षष्ठी। जीवन्तमपि शुल्कदमनादृत्य शिष्टा एवं यथेष्टदानं कुर्वत इत्यर्थः॥ 7-79-53 देवरमिति युगान्तरधर्मः॥ 7-79-54 केषांचिन्मते देवरादयः अलिखितां भ्रातृभार्या लिखन्त्येव सुरतेन योजयन्त्येव। अपरेषां मते शनैक्मन्थरा इयं प्रवृत्तिः। ऐच्छिकी नतु वैधीत्यर्थः॥ 7-79-55 सङ्कल्पपूर्वकं दत्ताया अपि कन्याया योऽपहारस्तज्जन्यो मृषावादः पातको भवति दातुर्नतु तावन्मात्रेण तस्यां भार्यात्वमुत्पन्नमित्यर्थः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|